2026-05-06 06:33:38 by ambuda-bot
This page has not been fully proofread.
२७४.
ऐतरेयोपनिषद्भाष्ये
यश्च मन्तव्य आत्मा, तौ द्वौ प्रसज्येयाताम् । एक एव आत्मा
द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवत्, उभयथा-
प्यनुपपत्तिरेव । यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुप-
पत्तिः, समत्वात्, तद्वत् । न च मन्तुर्मन्तव्ये मननव्या-
पारशून्य: कालेऽस्त्यात्ममननाय । यदापि लिङ्गेनात्मानं
मनुते मन्ता, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा, यश्व
तस्य मन्ता, तौ द्वौ प्रसज्येयाताम् ; एक एव वा द्विधेति
पूर्वोक्तो दोष: । न प्रत्यक्षेण, नाप्यनुमानेन ज्ञायते चेत्,
कथमुच्यते ' स म आत्मेति विद्यात्' इति, कथं वा श्रोता
मन्तेत्यादि ? ननु श्रोतृत्वादिधर्मवानात्मा, अश्रोतृत्वादि च
प्रसिद्धमात्मनः ; किमत्र विषमं पश्यसि ? यद्यपि तव न
विषमम् ; तथापि मम तु विषमं प्रतिभाति । कथम ? यदासौ
श्रोता, तदा न मन्ता; यदा मन्ता, तदा न श्रोता । तत्रैवं
सति, पक्षे श्रोता मन्ता, पक्षे न श्रोता नापि मन्ता । तथा
अन्यत्रापि च । यदैवम्, तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृ-
त्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् ? यदा
देवदत्तो गच्छति, तदा न स्थाता, गन्तैव 1 यदा तिष्ठति, -
न गन्ता, स्थातैव; तदास्य पक्ष एव गन्तृत्वं स्थातृत्वं च,
न. नित्यं गन्तृत्वं स्थातृत्वं वा, तद्वत् ।
तथैवात्र काणा-