Proofing

This page has not been fully proofread.

चतुर्थः खण्डः ।
 
२७३
 
तीयः । एवमेते त्रय आत्मानोऽन्योन्यविलक्षणाः । तत्र कथ-
मेक एवात्मा अद्वितीय: असंसारीति ज्ञातुं शक्यते ? तत्र
जीव एव तावत्कथं ज्ञायते ? नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा
आदेष्टाघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते
यः श्रवणादिकर्तृत्वेन अमतो मन्ता अविज्ञातो विज्ञाता इति
च । तथा 'न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं वि-
जानीया:' इत्यादि च । सत्यं विप्रतिषिद्धम्, यदि प्रत्यक्षेण
ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते ' न मतेर्मन्ता-
रम्' इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन ; तत्र कुतो वि-
प्रतिषेध: ? ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते, यावता यदा
शृणोत्यात्मा श्रोतव्यं शब्दम्, तदा तस्य श्रवणक्रिययैव वर्त-
मानत्वान्मननविज्ञानक्रिये न संभवत आत्मनि परत्र वा । त-
था अन्यत्रापि मननादिक्रियासु । श्रवणादिक्रियाश्च स्वविषये-
ष्वेव । न हि मन्तव्यादन्यत्र मन्तुः मननक्रिया संभवति । ननु
मनसः सर्वमेव मन्तव्यम् । सत्यमेवम्; तथापि सर्वमपि
मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात् ?
इदमत्र स्यात् -- सर्वस्य योऽयं मन्ता, स मन्तैवेति न स
मन्तव्य: स्यात् । न च द्वितीयो मन्तुर्मन्तास्ति । यदा स
आत्मनैव मन्तव्यः, तदा येन च मन्तव्य आत्मा आत्मना,.
 
S. U. II. 18