Proofing

This page has not been fully proofread.

२७२
 
ऐतरेयोपनिषद्भाष्ये
 
भिध्यानान्मुखादि निर्भिन्नं मुखादिभ्यश्चाग्न्यादयो लोक-
पालाः । तेषां चाशनायादिसंयोजनं तदायतनप्रार्थनं तदर्थ
गवादिप्रदर्शनं तेषां च यथायतनप्रवेशनं सृष्टस्यान्नस्य पला-
यनं वागादिभिस्तज्जिघृक्षेति । एतत्सर्वं सीमाविदारणप्रवेश-
सममेव ॥
 
अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्रात्मावबोधमात्रस्य
विवक्षितत्वात्सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा ; महा-
मायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखावबोधप्र-
तिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः ।
न हि सृष्टयाख्यायिकादिपरिज्ञानात्किंचित्फलमिष्यते । ऐका-
त्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् ।
स्मृतिषु च गीताद्यासु 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् '
इत्यादिना । ननु त्रय आत्मानो भोक्ता कर्ता संसारी
जीव एकः सर्वलोकशास्त्रप्रसिद्धः । अनेकप्राणिकर्मफलोपभो-
गयोग्यानेकाधिष्ठानवल्लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्र-
प्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञान-
वांस्तत्कर्ता तक्षादिवि ईश्वरः सर्वज्ञो जगतः कर्ता
द्वितीयश्चेतन आत्मा अवगम्यते । ' यतो वाचो निवर्त-
न्ते' 'नेति नेति' इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृ-