Proofing

This page has not been fully proofread.

तृतीय: : खण्ड: ।
 
२६७
 
त्मज्ञानप्रबोधकृच्छब्दिकायां वेदान्तमहाभेर्या तत्कर्णमूळे
ताड्यमानायाम्, एतमेव सृष्ट्यादिकर्तृत्वेन प्रकृतं पुरुषं
पुरि शयानमात्मानं ब्रह्म बृहत् ततमं तकारेणैकेन लुप्तेन
तततमं व्याप्ततमं परिपूर्णमाकाशवत् प्रत्यबुध्यत अपश्यत् ।
कथम् ? इदं ब्रह्म मम आत्मनः स्वरूपमदर्श दृष्टवानस्मि ।
अहो इति । विचारणार्था प्लुतिः पूर्वम् ॥
 
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम
तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परो-
क्षेण । परोक्षप्रिया इव हि देवाः परोक्ष-
प्रिया इव हि देवाः ॥ १४ ॥
 
इति तृतीयः खण्डः ॥
 
यस्मादिदमित्येव यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तरमपश्यत्
न परोक्षेण, तस्मात् इदं पश्यतीति इदन्द्रो नाम परमात्मा ।
इदन्द्रो ह वै नाम प्रसिद्धो लोके ईश्वरः । तम् एवम् इदन्द्रं
सन्तम् इन्द्र इति परोक्षेण परोक्षाभिधानेन आचक्षते ब्रह्म-
विदः संव्यवहारार्थं पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् ।