Proofing

This page has not been fully proofread.

भद्रं कर्णेभिः शृणुयाम
देवाः । भद्रं पश्येमाक्षभिर्य-
जत्राः । स्थिरैरङ्गैस्तुष्टुवाँ-
सस्तनूभिः । व्यशेम देव-
हितं यदायुः ॥ स्वस्ति न
इन्द्रो वृद्धश्रवाः । स्वस्ति नः
पूषा विश्ववेदाः । स्वस्ति न-
स्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति
नो बृहस्पतिर्दधातु ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥