2026-05-06 05:23:29 by ambuda-bot
This page has not been fully proofread.
षष्ठः प्रश्नः ।
३०५
तान् एवमनुशिष्य शिष्यान् तान् होवाच पिप्पलाद : किल
एतावदेव वेद्यं परं ब्रह्म वेद विजानाम्यहमेतत् । न अतः
अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यम् इत्येवमुक्तवान्
शिष्याणामविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजन-
नार्थं च ॥
ते तमर्चयन्तस्त्वं हि नः पिता यो-
ऽस्माकमविद्यायाः परं पारं तारयसीति ।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥
इति षष्ठः प्रश्नः समाप्तः ॥
-
ततः ते शिष्या गुरुणानुशिष्टाः तं गुरुं कृतार्थाः सन्तो वि-
द्यानिष्क्रयमन्यदपश्यन्तः किं कृतवन्त इत्युच्यते —— अर्चयन्तः
पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च
शिरसा । किमूचुरित्याह — त्वं हि नः अस्माकं पिता ब्रह्मश-
रीरस्य विद्यया जनयितृत्वान्नित्यस्याजरामरणस्याभयस्य । यः
त्वमेव अस्माकम् अविद्यायाः विपरीतज्ञानाज्जन्मजरामरणरो-
गदुःखादिग्राहादपाराद्विद्यामहोदधेर्विद्याप्लवेन परम् अपुनरा
वृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मानित्यतः
S. U. 20