Proofing

This page has not been fully proofread.

३०४
 
प्रश्नोपनिषद्भाष्ये
 
लयमार्गः, स एष: विद्यया प्रविलापितास्वविद्याकामकर्मज-
नितासु प्राणादिकलासु अकल: अविद्याकृतकलानिमित्तो हि
मृत्युः ; तदपगमेऽकलत्वादेव अमृतः भवति । तदेतस्मिन्नर्थे
एषः श्लोकः ॥
 
अरा इव रथनाभौ
 
कला यस्मिन्प्रतिष्ठिताः ।
 
तं वेद्यं पुरुषं वेद
 
कला:
 
यथा मा. वो मृत्युः परिव्यथा इति ॥
अरा इव रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ
यथाप्रवेशिताः तदाश्रया भवन्ति यथा, तथेत्यर्थः ।
प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्पत्तिस्थितिलय कालेषु,
तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात्पुरुषं पुरि
शयनाद्वा वेद जानाति यथा हे शिष्याः, मा वः युष्मान
मृत्युः परिव्यथाः मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो
मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ । अतस्त-
न्माभूद्युष्माकमित्यभिप्राय: ॥
 
तान्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद
नातः परमस्तीति ॥ ७ ॥