Proofing

This page has not been fully proofread.

षष्ठः प्रश्नः ।
 
३०३
 
पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति
भिद्येते चासां नामरूपे पुरुष इत्येवं प्रो-
च्यते स एषोऽकलोऽमृतो भवति तदेष
श्लोकः ॥ ५ ॥
 
कथम् ? सः दृष्टान्तः, यथा लोके इमा नद्यः स्यन्दमाना:
स्रवन्त्यः समुद्रायणाः, समुद्र एव अयनं गतिरात्मभावो यासां
ताः समुद्रायणाः, समुद्रं प्राप्य उपगम्य अस्तम् अदर्शनं नामरू-
पतिरस्कारं गच्छन्ति ; तासां चास्तं गतानां भिद्येते विनश्ये-
ते नामरूपे गङ्गा यमुनेत्यादिलक्षणे ; तदभेदेन समुद्र इत्येवं
प्रोच्यते तद्वस्तूदकलक्षणम् ; एवं यथायं दृष्टान्तः उक्तलक्षण-
स्य प्रकृतस्य अस्य पुरुषस्य परिद्रष्टुः परि समन्ताद्रष्टुर्दर्शनस्य
कर्तुः स्वरूपभूतस्य । यथा अर्क: स्वात्मप्रकाशस्य कर्ता सर्वतः,
तद्वत् इमाः षोडश प्राणाद्या उक्ताः कलाः पुरुषायणाः नदी-
नामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां ताः
पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं ग-
च्छन्ति । भिद्येते च आसां नामरूपे कलानां प्राणाद्याख्या रूपं
च यथास्वम् । भेदे च नामरूपयोर्यदनष्टं तत्तत्त्वं पुरुष: इत्ये-
वं प्रोच्यते ब्रह्मविद्भिः । य एवं विद्वान्गुरुणा प्रदर्शित कलाप्र-