2026-05-06 05:23:27 by ambuda-bot
This page has not been fully proofread.
३०२
प्रश्नोपनिषद्भाष्ये
साधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः, तथा गन्धगुणेन
पूर्वगुणानुप्रवेशेन च पश्चगुणा पृथिवी, तथा तैरेव भूतैरार-
ब्धम् इन्द्रियं द्विप्रकारं बुद्धयर्थं कर्मार्थे च दशसंख्याकम्, तस्य
श्वरमन्तःस्थं संशयविकल्पादिलक्षणं मनः । एवं प्राणिनां
कार्य करणं च सृष्ट्वा तत्स्थित्यर्थं त्रीहियवादिलक्षणम् अन्नम्,
ततश्च अन्नात् अद्यमानात् वीर्ये सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसा-
धनम्, तद्वीर्यवतां च प्राणिनां तपः विशुद्धिसाधनं संकीर्यमा -
णानाम्, मन्त्राः तपोविशुद्धान्तर्बहिः करणेभ्यः कर्मसाधनभूता
ऋग्यजुःसामाथर्वाङ्गिरसः; ततः कर्म अग्निहोत्रादिलक्षणम्,
ततो लोकाः कर्मणां फलम् तेषु च लोकेषु सृष्टानां प्राणि-
नां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः
प्राणिनामविद्यादिदोषबीजापेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा
'
द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वपदा-
र्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिवि-
भागम् ॥
स यथेमा नद्यः स्यन्दमानाः समुद्राय-
णाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते
तासां नामरूपे समुद्र इत्येवं प्रोच्यते ।
एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः