Proofing

This page has not been fully proofread.

षष्ठः प्रश्नः ।
 
३०१
 
उपचारो राजा कर्तेति, सोsवानुपपन्नः ; ' स ईक्षांच' इति
श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः । तत्र हि गौणी कल्पना
शब्दस्य, यंत्र मुख्यार्थो न संभवति । इह त्वचेतनस्य मुक्त-
बद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च
बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते ;
यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उपपन्ना । ईश्वरेणैव सर्वाधि-
कारी प्राणः पुरुषेण सृज्यते ॥
 
स प्राणमसृजत प्राणाच्छ्रद्धा खं वायु-
ज्योतिरापः पृथिवीन्द्रियं मनः । अन्नम-
नावीर्यं तपो मन्त्राः कर्मलोका लोकेषु
 
च नाम च ॥ ४ ॥
 
कथम ? सः पुरुषः उक्तप्रकारेणेक्षित्वा सर्वप्राणं हिरण्य-
गर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानम् असृजत सृष्टवान ।
ततः प्राणात् श्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम् ; ततः
कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतानि
असृजत- खं शब्दगुणकम्, वायुः स्वेन स्पर्शगुणेन शब्दगुणेन
च विशिष्टो द्विगुण:, तथा ज्योतिः स्वेन रूपेण पूर्व गुणाभ्यां
 
विशिष्टं शब्दस्पर्शाभ्यां त्रिगुणम्, तथा आपो रसगुणेना-