2026-05-06 05:23:27 by ambuda-bot
This page has not been fully proofread.
३००
प्रश्नोपनिषद्भाष्ये
विद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत्, पर-
मार्थतः पुरुषो भोक्तैव, न कर्ता ; प्रधानं कर्तेव न भोक्तृ पर-
मार्थसद्वस्त्वन्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्था
निर्हेतुका च इति नादर्तव्या मुमुक्षुभिः । एकत्वेऽपि शास्त्र-
णयनाद्यानर्थक्यभिंति चेत्, न ; अभावात् — सत्सु हि शास्त्र-
प्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमर्थवदनर्थकं वेति
विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः
सन्ति ; तदभावे एवं विकल्पनैवानुपपन्ना । अभ्युपगते आत्मै-
कत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छ-
ता । तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम् ' यत्र त्वस्य
सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादि; शास्त्रप्रणयनाद्युप-
पत्ति चाह अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये 'यत्र हि
द्वैतमिव भवति' इत्यादि विस्तरतो वाजसनेयके । अत्र च
विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य । अतो
न तार्किक वादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्ते इहात्मै-
कत्वविषये इति । एतेनाविद्याकृत नामरूपाद्युपाधिकृतानेक-
शक्तिसाधनकृतभेदवत्वाद्ब्रह्मणः सृष्टयादिकर्तृत्वे साधनाय
भावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्त आत्मानर्थ कर्तृत्वा-
दिदोषश्च । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये
•