2026-05-06 05:23:27 by ambuda-bot
This page has not been fully proofread.
षष्ठः प्रश्नः ।
२९९
दिधर्मवत् । तद्विपरीतः पुरुषः । नासौ विशेष:, वाड्यात्रत्वात् ।
प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम
विशेषो भोगोत्पत्तिकाले चेतु जायते, निवृत्ते च भोगे पुनस्त-
द्विशेषादपेतश्चिन्मात्र एव भवतीति चेत्; महदाद्याकारेण च
परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत
इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधान-
पुरुषयोर्विशिष्टविक्रिया कल्प्यते । अथ भोगकालेऽपि चिन्मात्र
" एव प्राग्वत्पुरुष इति चेत्, न तर्हि परमार्थतो भोगः पुरुषस्य ।
अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोग:
पुरुषस्येति चेत्, न; प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्धो-
क्तृत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत्, औ-
याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः ।
प्रधानपुरुषयोर्द्वयोर्युगपद्भोक्तृत्वमिति चेत्, न; प्रधानस्य पा-
रायनुपपत्तेः न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उप-
पद्यते प्रकाशयोरिवेतरेतरप्रकाशने । भोगधर्मवति सत्त्वाङ्गिनि
चेतसि पुरुषस्य चैतन्य प्रतिबिम्बोदयादविक्रियस्य पुरुषस्य भो-
क्तृत्वमिति चेत्, न पुरुषस्य विशेषाभावे भोक्तृत्व कल्पनान-
र्थक्यात् । भोगरूपश्वेदनर्थ: पुरुषस्य नास्ति सदा निर्विशेष-
त्वात्पुरुषस्य, कस्यापनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते ? अ-