2026-05-06 05:23:26 by ambuda-bot
This page has not been fully proofread.
२९८
प्रश्नोपनिषद्भाष्ये
तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वास्ति, अद्वैतत्वा-
त्सर्वभावानाम् । सांख्यास्त्वविद्याध्यारोपितमेव पुरुषे क-
र्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आगमबाह्यत्वात्पु-
नस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति ।
तत्त्वान्तरं च प्रधानं पुरुषाद्वाह्यं परमार्थवस्तुभूतमेव कल्पय-
न्तोऽन्य तार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते । तथेतरे
तार्किकाः सांख्यै: ; इत्येवं परस्परविरुद्धार्थकल्पनात आमिषा-
र्थिन इव प्राणिनोऽन्योन्यविरुध्यमानार्थदर्शित्वात्परमार्थत-
त्वाद्दूरमेवापकृ॑ष्यन्ते । अतस्तम्मतमनादृत्य वेदान्तार्थतत्त्वमे-
कत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमत दोष-
प्रदर्शनं किंचिदुच्यतेऽस्माभिः ; न तु तार्किकवत्तात्पर्येण ।
तथैतदत्रोक्तम् — विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् ।
तै: संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित् ॥ किंच,
भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः । का नामासौ
कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो
भोक्तैव पुरुषः कल्प्यते न कर्ता ; प्रधानं तु कर्चेव न
भोक्तृ इति । ननु उक्तं पुरुषश्चिन्मात्र एव; स च स्वात्मस्थो
भुञ्जानः, न तत्त्वान्तरपरिणामेन । प्रधानं तु त-
वान्तरपरिणामेन विक्रियते ; अतो नैकमशुद्धमचेतनं चेत्या -