2026-05-06 05:23:26 by ambuda-bot
This page has not been fully proofread.
षष्ठः प्रश्नः ।
२९७
चनम्, सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि '
सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽप्येकत्वेन
कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च ।
न हि चेतनावान्बुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् ।
तस्मात्पुरुषार्थेन प्रयोजनेनेापूर्वकमिव नियतक्रमेण प्रवर्त-
मानेऽचेतनेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षांचक्रे इ-
त्यादि: : यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति, तद्वत् ।
न ; आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः — यथा सांख्यस्य चि-
न्मात्रस्यापरिणामिनो ऽप्यात्मनो भोक्तृत्वम्, तद्वद्वेदवादिना -
मीक्षा पूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तत्त्वान्तरप-
रिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तं चिन्मात्रस्वरू-
पविक्रियातः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूप-
विक्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे
तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति
चेत्, न; एकस्याप्यात्मनोऽविद्याविषयनामरूपोपाध्यनुपा-
धिकृतविशेषाभ्युपगमात् । अविद्याकृतनामरूपोपाधिनिमित्तो
हि विशेषोऽभ्युपगम्यते आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्य-
वहाराय । परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमु-
पादेयं सर्वतार्किकबुद्धधनवगम्यं ह्यजमभयं शिवमिष्यते । न