Proofing

This page has not been fully proofread.

२९६
 
प्रश्नोपनिषद्भाष्ये
 
विज्ञानादिलिङ्गैरन्तः शरीरे परिच्छिन्न इव द्युपलभ्यते पुरुष
उपलभ्यते चात्र । अत उच्यते-- अन्तः शरीरे सोम्य स
पुरुष इति । न पुनराकाशकारणभूतः सन्कुण्डबदरवच्छरीर-
परिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि ; किमुत
प्रमाणभूता श्रुतिः ॥
 
स ईक्षांचक्रे कस्मिन्नहमुत्क्रान्त उत्क्रा-
न्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते
प्रतिष्ठास्यामीति ॥ ३ ॥
 
यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तः पुरुषविशेषणा-
र्थः कलानां प्रभवः, स चान्यार्थोऽपि श्रुतः केन क्रमेण
स्यादित्यत इदमुच्यते । चेतनपूर्विका च सृष्टिरित्येवमर्थं च ।
स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षांचक्रे ई-
णं दर्शनं चक्रे - कृतवानित्यर्थ:- सृष्टिफलक्रमादिविषयम् ।
 
-
 
कथमिति, उच्यते कस्मिन् कर्तृविशेषे देहादुत्क्रान्ते उत्क्रान्तो
भविष्यामि अहमेव ; कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठा-
स्यामि प्रतिष्ठितः स्यामित्यर्थः । नन्वात्मा अकर्ता प्रधानं कर्तृ ;
अतः पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्या-
कारेण; तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्वकं कर्तृत्वव-