Proofing

This page has not been fully proofread.

षष्ठः प्रश्नः ।
 
२९५
 
श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न;
प्राणादिकलाकारणत्वात् — न हि शरीरमात्र परिच्छिन्नः
प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् ।
कलाकार्यत्वाच्च शरीरस्य — न हि पुरुषकार्याणां कलानां
कार्य सच्छरीरं कारणकारणं स्वस्थ पुरुषं कुण्डबदरमिवा-
भ्यन्तरीकुर्यात् । बीजवृक्षादिवत्स्यादिति चेत् — यथा बीज -
कार्य वृक्षस्तत्कार्य च फलं स्वकारणकारणं बीजमभ्यन्तरी-
करोत्याम्रादि, तद्वत्पुरुषमभ्यन्तरीकुर्याच्छरीरं स्वकारणका-
रणमपीति चेत्, न; अन्यत्वात्सावयवत्वाच्च दृष्टान्ते कार-
णाद्बीजाद्वृक्ष फलसंवृत्तान्यन्यान्येव बीजानि ; दाष्टन्तिके
तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः
श्रूयते । बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वम् ;
निरवयवश्च पुरुषः, सावयवाश्च कलाः शरीरं च । एतेना-
काशस्यापि शरीराधारत्वमनुपपन्नम् ; किमुताकाशकारणस्य
पुरुषस्य ? तस्मादसमानो दृष्टान्तः । किं दृष्टान्तेन ? वचना-
न हि वचनं
त्स्यादिति चेत्, न वचनस्याकारकत्वात्-
वस्तुनोऽन्यथाकरणे व्याप्रियते; किं तर्हि, यथाभूतार्थाव-
द्योतने । तस्मादन्तःशरीर इत्येतद्वचनम् ' अण्डस्यान्तव्यम'
इतिवद्द्रष्टव्यम् । उपलब्धिनिमित्तत्वाच्च - दर्शनश्रवणमनन-