2026-05-06 05:23:25 by ambuda-bot
This page has not been fully proofread.
षष्ठः प्रश्नः ।
२९३
ज्ज्ञेयाभिव्यक्त्यर्थत्वात्स्वव्ययाभावे आलोकाभावानुपपत्ति-
वत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञानाभावानुपपत्तेः । न ह्यन्ध-
कारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितु-
वैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति
चेत्, येन तदभावं कल्पयेत्तस्याभाव: केन कल्प्यत इति
वक्तव्यं वैनाशिकेन तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तद-
नुपपत्तेः । ज्ञानस्य ज्ञेयाव्यतिरिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव
इति चेत्, न; अभावस्यापि ज्ञेयत्वाभ्युपगमात् -- अभावोऽपि
ज्ञेयोऽभ्युपगम्यते वैनाशिकैर्नित्यश्च । तदव्यतिरिक्तं चेज्ज्ञानं
नित्यं कल्पितं स्यात् । तदभावस्य च ज्ञानात्मकत्वादभावत्वं
च वाङ्मात्रमेव ; न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य ।
न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किंचिन्नरिछ-
नम् । अथाभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्त इति चेत्, न
तर्हि ज्ञेयाभावे ज्ञानाभावः । ज्ञेयं ज्ञानव्यतिरिक्तम् ; न तु
ज्ञानं ज्ञेयव्यतिरिक्तमिति चेन, न; शब्दमालत्वाद्विशेषानुप-
पत्तेः । ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते, ज्ञेयं ज्ञानव्यतिरि-
क्तम्, न ज्ञेयव्यतिरिक्तं ज्ञानम् इति तु शब्दमात्रमेव तत् -
वह्निरग्निव्यतिरिक्तः, अग्निर्न वह्निव्यतिरिक्त इति यद्वत्-
अभ्युपगम्यम् । ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभा-