2026-05-06 05:23:25 by ambuda-bot
This page has not been fully proofread.
२९२
* प्रश्नोपनिषद्भाष्ये
ऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति क
लानां प्रभवस्थित्यप्यया आरोप्यन्तेऽविद्याविषयाः । चैतन्याव्य-
तिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा
लक्ष्यन्ते । अत एव भ्रान्ताः केचित् - अग्निसंयोगाद्धृतमिव
घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्नि-
रोधे शून्यमेव सर्वमिति अपरे । घटादिविषयं चैतन्यं चेत-
यितुर्नित्यखात्मनोऽनित्यं जायते विनश्यतीत्यपरे । चैतन्यं भू-
तधर्म इति लौकायतिकाः । अनपायोपजनधर्मक चैतन्यमात्मैव
नामरूपाद्युपाधिधर्मैः प्रत्यवभासते ' सत्यं ज्ञानमनन्तं ब्रह्म'
'प्रज्ञानं ब्रह्म' ' विज्ञानमानन्दं ब्रह्म' ' विज्ञानघन एव' इत्या-
दिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभि-
चाराद्यथा यथा यो यः पदार्थों ज्ञायते, तथा तथा ज्ञायमान-
त्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वम् । वस्तुतत्त्वं भव-
ति किंचित्, न ज्ञायत इति चानुपपन्नम् ; रूपं च दृश्यते,
न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयम्; न ज्ञानं
व्यभिचरति कदाचिदपि ज्ञेयम्, ज्ञेयाभावेऽपि ज्ञेयान्तरे भावा-
ज्ञानस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कखचित् ;
सुषुमेऽदर्शनात् -- ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयवज्ज्ञानस्वरूप-
स्य व्यभिचार इति चेत्, न ; ज्ञेयावभासकस्य ज्ञानस्यालोकव-