2026-05-06 05:23:25 by ambuda-bot
This page has not been fully proofread.
,
षष्ठः प्रश्नः ।
२९१
भूतार्थम् अभिवदति स परिशुष्यति शोषमुपैति इहलोकपर-
लोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मात् न
अर्हामि अहम् अनृतं वक्तुं मूढवत् । स राजपुत्रः एवं प्रत्या-
यितः तूष्णीं व्रीडितः रथम् आरुह्य प्रववाज प्रगतवान् यथा-
गतमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या
वक्तव्यैव; अनृतं च न वक्तव्यं सर्वास्वप्यवस्थास्वित्येतत्सिद्धं
भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन
शल्यमिव स्थितम्, क्व असौ वर्तते विज्ञेयः पुरुष इति ।
तस्मै स होवाचेहैवान्तः शरीरे सो-
म्य स पुरुषो यस्मिन्नेताः षोडश कलाः
प्रभवन्तीति ॥ २॥
तस्मै स होवाच । इहैव अन्तःशरीरे हृदयपुण्डरीकाकाश-
मध्ये हे सोम्य स पुरुषः, न देशान्तरे विज्ञेयः । यस्मिन् एताः
उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति
षोडशभिः कलाभिरुपाधिभूताभिः सकल इव निष्कलः पुरुषो
लक्ष्यतेऽविद्ययेति तदुपाधिकलाध्यारोपापनयनेन विद्यया स
पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते
प्राणादीनाम् । अत्यन्तनिर्विशेषे ह्यद्वये विशुद्धे तवे न शक्यो-