Proofing

This page has not been fully proofread.

२९०
 
प्रश्नोपनिषद्भाष्ये
 
'
 
ह्यकारणे कार्यस्य संप्रतिष्ठानमुपपद्यते । उक्तं च आत्मन
एष प्राणो जायते' इति । जगतश्च यन्मूलं तत्परिज्ञानात्परं
श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तम् ' स
सर्वज्ञः सर्वो भवति' इति । वक्तव्यं च क्व तर्हि तदक्षरं सत्यं
 
1
 
पुरुषाख्यं विज्ञेयमिति ; तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वा-
ख्यानं च विज्ञानस्य दुर्लभत्वज्ञापनेन तल्लब्ध्यर्थं मुमुक्षूणां
यत्नविशेषोपादानार्थम् । हे भगवन्, हिरण्यनाभः नामतः
कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः माम्
उपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छत । षोडशकलं
षोडशसंख्याकाः कला अवयवा इवात्मन्य विद्याध्यारोपित-
रूपा यस्मिन्पुरुषे, सोऽयं षोडशकलः ; तं षोडशकलं हे भार-
द्वाज, पुरुषं वेत्थ त्वं विजानासि । तम् अहं राजपुत्रं कुमारं
पृष्टवन्तम् अब्रुवम् उक्तवानस्मि -- नाहमिमं वेद यं त्वं पृच्छ-
सीति । एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने का
रणमवादिषम् -- यदि कथंचित् अहम् इमं त्वया पृष्टं पुरुषम
अवेदिषं विदितवानस्मि, कथम् अत्यन्तशिष्यगुणवतेऽर्थिने ते
तुभ्यं न अवक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः । भूयोऽप्यप्र-
त्ययमेवालक्ष्य प्रत्याययितुमत्रम् — समूलः सह मूलेन बै
एषः अन्यथा सन्तमात्मानमन्यथा कुर्वन् यः अनृतम् अयथा-