2026-05-06 05:23:25 by ambuda-bot
This page has not been fully proofread.
षष्ठः प्रश्नः ॥
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ।
भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो
मामुपेत्यैतं प्रश्नमपृच्छत षोडशकलं भा-
रद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रवं
नाहमिमं वेद यद्यहमिममवेदिषं कथं ते
नावक्ष्यमिति, समूलो वा एष परिशु
ष्यति योऽनृतमभिवदति तस्मान्नार्हाम्य-
नृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रव-
बाज । नं त्वा पृच्छामि कासौ पुरुष
इति ॥ १ ॥
अथ ह एनं सुकेशा भारद्वाजः पप्रच्छ समस्तं जगत्कार्य-
कारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले
संप्रतिष्ठत इत्युक्तम् । तत्सामर्थ्यात्प्रलयेऽपि तस्मिन्नेवाक्षरे
संप्रतिष्ठते जगत्तत एवोत्पद्यत इति च सिद्धं भवति । न
119