Proofing

This page has not been fully proofread.

२८८
 
चलेत्कस्मिन्वा ॥
 
प्रश्नोपनिषद्भाष्ये
 
ऋग्भिरेतं यजुर्भिरन्तरिक्षं
सामभिर्यत्तत्कवयो वेदयन्ते ।
तमोंकारेणैवायतनेनान्वेति विद्वा-
 
न्यत्तच्छान्तमजरममृतमभयं परं चेति ॥
इति पञ्चमः प्रश्नः ॥
 
-
 
सर्वार्थसंग्रहार्थो द्वितीयो मन्त्रः- - ऋग्भिः एतं लोकं
मनुष्योपलक्षितम् । यजुर्भिः अन्तरिक्षं सोमाधिष्ठितम् । सा-
मभिः यत् तद्ब्रह्मलोक इति तृतीयं कवयः मेधाविनो विद्या-
वन्त एव नाविद्वांसः वेदयन्ते । तं त्रिविधं लोकमोंकारेण
साधनेनापरब्रह्मलक्षणम् अन्वेति अनुगच्छति विद्वान् । तेनै-

वकारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्त-
जाग्रत्स्वप्नसुषुप्तादिविशेषं सर्वप्रपञ्चविवर्जितम्, अत एव अजरं
जरावर्जितम् अमृतं मृत्युवर्जितमत एव । यस्माज्जरादिविक्रि-
यारहितमतः अभयम् । यस्मादेवाभयं तस्मात् परं निरति-
शयम् । तदप्योंकारेणैवायतनेन गमनसाधनेनान्वेतीत्यर्थः ।
इतिशब्दो वाक्यपरिसमाप्त्यर्थः ॥
 
इति पञ्चमप्रश्नभाष्यम् ॥