2026-05-06 05:23:24 by ambuda-bot
This page has not been fully proofread.
ध्यायमानः
पञ्चमः प्रश्नः ।
२८७
। तत् एतौ अस्मिन्यथोक्तार्थप्रकाशको श्लो-
कौ मन्त्रौ भवतः ॥
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता
अन्योन्यसक्ता अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु
सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ६ ॥
तिस्रः त्रिसंख्याका अकारोकारमकाराख्याः ॐकारस्य
मृत्युमत्यः मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्यु-
गोचरादनतिक्रान्ताः मृत्युगोचरा एवेत्यर्थः । ता आत्मनो
ध्यानक्रियासु प्रयुक्ताः । किंच, अन्योन्यसक्ताः इतरेतरसंब-
द्धा: । अनविप्रयुक्ताः विशेषेणैकैकविषय एव प्रयुक्ता विप्रयु-
मात्रा:
क्ताः,
न तथा विप्रयुक्ता अविप्रयुक्ताः, न अविप्रयुक्ता अनवि-
प्रयुक्ताः । किं तर्हि, विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रिया-
सु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तस्थानपुरुषाभिध्या-
नलक्षणासु योगक्रियासु युक्तासु सम्यक्प्रयुक्तासु सम्यग्ध्या-
नकाले प्रयोजितासु न कम्पते न चलति ज्ञः योगी यथोक्त-
विभागज्ञः ॐकारस्येत्यर्थः । न तस्यैवंविदश्चलनमुपपद्यते । य-
स्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपेणोंकारात्म-
रूपेण दृष्टाः ; स ह्येवं विद्वान्सर्वात्मभूत ॐकारमयः कुतो वा