Proofing

This page has not been fully proofread.

२८६
 
प्रश्नोपनिषद्भाष्ये
 
यः पुनः एतम् ॐकारं त्रिमात्रेण त्रिमात्राविषयविज्ञान-
विशिष्टेन ओमित्येतेनैव अक्षरेण परं सूर्यान्तर्गतं पुरुषं
प्रतीकत्वेन अभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन ह्याल -
म्बनत्वं प्रकृतमोंकारस्य परं चापरं च ब्रह्मेति अभेदश्रुतेः,
ॐकारमिति च द्वितीयानेकशः श्रुता बाध्येतान्यथा । यद्यपि
तृतीयाभिधानत्वेन करणत्वमुपपद्यते, तथापि प्रकृतानुरो-
धात्त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणेया ' त्यजेदेकं
कुलस्यार्थे' इति न्यायेन । सः तृतीयमात्रारूपे तेजसि सूर्ये
संपन्नो भवति ध्यायमानः, मृतोऽपि सूर्यात्सोमलोकादिवन्न
पुनरावर्तते ; किंतु सूर्ये संपन्नमात्र एव । यथा पादोदरः सर्पः
त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति ।
एवं ह वै एष यथा दृष्टान्त: स पाप्मना सर्पत्वक्स्थानीये-
नाशुद्धिरूपेण विनिर्मुक्तः सः सामभिः तृतीयमानारूपैः ऊर्ध्व-
मुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् ।
सः हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः ।
स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानाम् । तस्मिन् हि लिङ्गा-
त्मनि संहताः सर्वे जीवाः । तस्मात्स जीवघनः स विद्वां-
विमाकाराभिज्ञः एतस्माज्जीवधनात् हिरण्यगर्भात्परात्परं
परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्वशरीरानुप्रविष्टं पश्यति
 
: