2026-05-06 05:23:24 by ambuda-bot
This page has not been fully proofread.
पञ्चमः प्रश्नः ।
२८५
अथ यदि द्विमात्रेण मनसि संपद्यते
सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ।
स सोमलोके विभूतिमनुभूय पुनराव-
र्तते ॥ ४ ॥
अथ पुनः यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमों-
कारमभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सौम-
दैवत्ये संपद्यते एकाग्रतयात्मभावं गच्छति, स एवं संपन्नो
मृतः अन्तरिक्षम् अन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीय-
मात्रारूपैरेव यजुर्भिः उन्नीयते सोमलोकं सौम्यं जन्म
प्रापयन्ति तं यजूंषीत्यर्थः । स तत्र विभूतिमनुभूय सोम-
लोके मनुष्यलोकं प्रति पुनरावर्तते ॥
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्ष-
रेण परं पुरुषमभिध्यायीत स तेजसि
सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनि-
मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः
स सामभिरुन्नीयते ब्रह्मलोकं स एतस्मा-
जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते ।
तदेतौ श्लोकौ भवतः ॥ ५ ॥