2026-05-06 05:23:24 by ambuda-bot
This page has not been fully proofread.
२८४
प्रश्नोपनिषद्भाष्ये
स यद्येकमात्रमभिध्यायीत स तेनैव
संवेदितस्तु र्णमेव जगत्यामभिसंपद्यते ।
तमृचो मनुष्यलोकमुपनयन्ते स तत्र
तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महि-
मानमनुभवति ॥ ३ ॥
स यद्यप्योंकारस्य सकलमात्राविभागज्ञो न भवति,
तथाप्योंकाराभिध्यानप्रभावाद्विशिष्टामेव गतिं गच्छति ; एत-
देकदेशज्ञानवैगुण्यतयोंकारशरणः कर्मज्ञानोभयभ्रष्टो न दु-
गतिं गच्छति ; किं तर्हि, यदि एवमोंकारमेव एकमात्राविभागज्ञ
एव केवल: अभिध्यायीत एकमात्रं सदा ध्यायीत, स तेनैव
एकमात्राविशिष्टोंकाराभिध्यानेनैव संवेदित: संबोधित: तूर्ण
क्षिप्रमेव जगत्यां पृथिव्याम् अभिसंपद्यते । किम् ? मनुष्य-
लोकम् । अनेकानि हि जन्मानि जगत्यां संभवन्ति ।
तत्र तं साधकं जगत्यां मनुष्यलोकमेव उपनयन्ते उप
निगमयन्ति ऋचः । ऋग्वेदरूपा ह्योंकारस्य प्रथमा एक-
मात्रा । तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा
ब्रह्मचर्येण श्रद्धया च संपन्न: महिमानं विभूतिम् अनुभवति
न वीतश्रद्धो यथेष्टचेष्टो भवति ; योगभ्रष्टः कदाचिदपि न
दुर्गतिं गच्छति ॥