2026-05-06 05:23:23 by ambuda-bot
This page has not been fully proofread.
पञ्चमः प्रश्नः ।
२८३
लोकास्तिष्ठन्ति ; तेषु तेन ॐकाराभिध्यानेन कतमं सः लोकं
जयतीति ॥
तस्मै स होवाच । एतद्वै सत्यकाम
परं चापरं च ब्रह्म यदोंकारः । तस्माद्वि-
द्वानेतेनैवायतनेनैकतरमन्वेति ॥ २ ॥
पृष्ठवते तस्मै स ह उवाच पिप्पलाद :- एतद्वै स -
त्यकाम 1 एतत् ब्रह्म वै परं च अपरं च ब्रह्म परं
सत्यमक्षरं पुरुषाख्यम् अपरं च प्राणाख्यं प्रथमजं यत्
तदोंकार एव ॐकारात्मकम् ॐकारप्रतीकत्वात् । परं हि
ब्रह्म शब्दाद्युपलक्षणानहं सर्वधर्मविशेषवर्जितम्, अतो न श-
क्यमतीन्द्रियगोचरत्वात्केवलेन मनसावगाहितुम् । ॐकारे
विष्ण्वादिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां त-
त्प्रसीदतीत्यवगम्यते शास्त्रप्रामाण्यात् । तथा परं च ब्रह्म ।
तस्मात्परं चापरं च ब्रह्म यदोंकार इत्युपचर्यते । तस्मादेवं
विद्वान एतेनैव आत्मप्राप्तिसाधनेनैव ॐकाराभिध्यानेन एक-
तरं परमपरं वा अन्वेति ब्रह्मानुगच्छति ; नेदिष्ठं ह्यालम्बन-
मोंकारो ब्रह्मणः ॥