Proofing

This page has not been fully proofread.

पश्चमः प्रश्चः ॥
 
अथ हैनं शैब्यः सत्यकामः पप्रच्छ ।
स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्त-
मोंकारमभिध्यायीत कतमं वाव स
तेन लोकं जयतीति ॥
 
अथ ह एनं शैब्यः सत्यकामः पप्रच्छ । अथेदानीं परा-
परब्रह्मप्राप्तिसाधनत्वेन ॐकारस्योपासनविधित्सया प्रश्न आ-
रभ्यते । सः यः कश्चित् ह वै भगवन्, मनुष्येषु मनु-
ष्याणां मध्ये तत् अद्भुतमिव प्रायणान्तं मरणान्तं यावज्जीव-
मित्येतत्; ॐकारम् अभिध्यायीत आभिमुख्येन चिन्तयेत् ।
बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशि
ब्रह्मभावे ॐकारे आत्मप्रत्ययसंतानाविच्छेदो भिन्नजा-
तीयप्रत्ययान्तराखिलीकृतो निवातस्थदीपशिखासमोऽभिध्या-
नशब्दार्थः । सत्यब्रह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसं-
तोषामायावित्वाद्यनेकयमनियमानुगृहीतः सः एवं यावज्जी-
वव्रतधारणः कतमं वाव, अनेके हि ज्ञानकर्मभिर्जेतव्या
 
"