Proofing

This page has not been fully proofread.

२८०
 
प्रश्नोपनिषद्भाष्ये
 
परमेवाक्षरं प्रतिपद्यते स यो ह वै त -
दच्छायमशरीरमलोहितं शुभ्रमक्षरं वेद-
यते यस्तु सोम्य । स सर्वज्ञः सर्वो
भवति तदेष श्लोकः ॥ १० ॥
 
-
 
प्रतिपद्यते इति । एतदुच्यते स यो ह वै
 
,
 
तदेकत्वविदः : फलमाह — परमेव अक्षरं वक्ष्यमाणविशेषणं
ह वै तत् सर्वैषणाविनि-
र्मुक्त: अच्छायं तमोवर्जितम्, अशरीरं नामरूपसर्वोपाधिशरी-
वर्जितम्, अलोहितं लोहितादिसर्वगुणवर्जितम्, यत एव-
मतः शुभ्रं शुद्धम्, सर्वविशेषणरहितत्वादक्षरम् सत्यं पुरु-
षाख्यमप्राणममनोगोचरं शिवं शान्तं सबाह्याभ्यन्तरमजं
वेदयते विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः
न तेनाविदितं किंचित्संभवति । पूर्वमविद्यया असर्वज्ञ
आसीत् । पुनर्विद्यया अविद्यापनये सर्वः भवति । तत् अस्मि -
न्नर्थे एषः श्लोकः मन्त्रो भवति उक्तार्थसंग्राहकः ॥
 
विज्ञानात्मा सह देवैश्च सर्वैः
 
प्राणा भूतानि संप्रतिष्ठन्ति यत्र ।