Proofing

This page has not been fully proofread.

चतुर्थः
 
ः प्रश्नः ।
 
२७९
 
द्धव्यं च तद्विषय: । अहंकारश्च अभिमानलक्षणमन्तःकरणम् ।
अहंकर्तव्यं च तद्विषय: । चित्तं च चेतनावदन्तःकरणम् ।
चेतयितव्यं च तद्विषयः । तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रका-
शविशिष्टा या त्वक् । तया निर्भास्यो विषयो विद्योतयितव्यम् ।
प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं संग्रथनीयम् ।
सर्व हि कार्यकरणजातं पारार्थेन संहतं नामरूपात्मकमेता-
वदेव ॥
 
एष हि द्रष्टा स्प्रष्टा श्रोता घाता रस-
यिता मन्ता बोद्धा कर्ता विज्ञानात्मा
पुरुषः । स परेऽक्षर आत्मनि संप्रतिष्ठते ॥
 
अतः परं यदात्मस्वरूपं जलसूर्यकादिवद्भोक्तृत्वकर्तृत्वेने-
हानुप्रविष्टम्, एषः हि द्रष्टा स्पष्टा श्रोता घ्राता रसयिता
मन्ता बोद्धा कर्ता विज्ञानात्मा, विज्ञानं विज्ञायतेऽनेनेति
करणभूतं बुद्धयादि, इदं तु विजानातीति विज्ञानं कर्तृका -
रकरूपम्, तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः । पुरुषः
कार्यकरणसंघातोक्तोपाधिपूरणात्पुरुषः । स च जलसूर्यका-
दिप्रतिबिम्बस्य सूर्यादिप्रवेशवज्जलाद्याधारशोषे परे अक्षरे
आत्मनि संप्रतिष्ठते ॥