Proofing

This page has not been fully proofread.

चतुर्थः प्रश्नः ।
 
२७७
 
तेजसा । अथ तदा एतस्मिन् शरीरे एतत्सुखं भवति यद्वि-
ज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥
 
स यथा सोम्य वयांसि वासोवृक्षं सं-
प्रतिष्ठन्त एवं ह वै तत्सर्वं पर आत्म-
नि संप्रतिष्ठते ॥ ७ ॥
 
एतस्मिन्काले अविद्याकामकर्मनिबन्धनानि कार्यकरणानि
शान्तानि भवन्ति । तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा
विभाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृ-
थिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह-स
दृष्टान्तः यथा येन प्रकारेण हि सोम्य प्रियदर्शन, वयांसि
पक्षिणः वासार्थं वृक्षं वासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति,
एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वे परे आत्मनि
अक्षरे संप्रतिष्ठते ॥
 
पृथिवी च पृथिवीमात्रा चापश्चापोमा-
त्रा च तेजश्च तेजोमात्रा च वायुश्च वा-
रमात्र। चाकाशश्चाकाशमात्रा च चक्षुश्च
द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च