2026-05-06 05:23:22 by ambuda-bot
This page has not been fully proofread.
२७६
प्रश्नोपनिषद्भाष्ये
`वासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यतीत्येवं मन्यते ।
शृणोति तथा श्रुतमर्थे तद्वासनयानु शृणोतीव । देशदिगन्तरैश्च
देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनस्तत्प्रत्यनुभवतीव
अविद्यया । तथा दृष्टं चास्मिञ्जन्मन्यदृष्टुं च जन्मान्तरदृष्ट-
मित्यर्थः । अत्यन्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं
चानुभूतं चास्मिञ्जन्मनि केवलेन मनसा अननुभूतं च
मनसैव जन्मान्तरेऽनुभूतमित्यर्थः । सञ्च परमार्थोदकादि ।
असच मरीच्युदकादि । किं बहुना, उक्तानुक्तं सर्वे पश्यति
सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा
मनोदेव: स्वप्नान्पश्यति ॥
स यदा तेजसाभिभूतो भवति । अ-
वैष देव: स्वप्नान्न पश्यत्यथैतदस्मिञ्श-
रीरे एतत्सुखं भवति ॥ ६ ॥
सः यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन
तेजसा नाडीशयेन सर्वतः अभिभूतो भवति तिरस्कृतवासना-
द्वारो भवति, तदा सह करणैर्मनसो रश्मयो हृद्युपसंहृता भ-
वन्ति । यदा मनो दार्वग्भिवदविशेषविज्ञानरूपेण कृत्स्नं शरीरं
व्याप्यावतिष्ठते, तदा सुषुप्तो भवति । अत्र एतस्मिन्काले एष:
मनआख्यो देवः स्वप्नान् न पश्यति दर्शनद्वारस्य निरुद्धत्वा-