Proofing

This page has not been fully proofread.

चतुर्थः प्रश्नः ।
 
२७५
 
स्यात्स्व केवलतया स्वयंज्योतिष्वेनार्धं तावदपनीतं भारस्येति
चेत्, न; तत्रापि 'पुरीतति नाडीषु शेते' इति श्रुतेः पुरीतन्ना-
डीसंबन्धादत्रापि पुरुषस्य स्वयंज्योतिट्वेनार्धभारापनयाभिप्रा-
यो मृषैव । कथं तर्हि ' अत्रायं पुरुषः स्वयंज्योति: ' इति ?
अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत्, न; अर्थैकत्वस्ये-
वात् । एको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो
बुभुत्सितश्च । तस्माद्युक्ता स्वप्न आत्मनः स्वयंज्योतिष्ट्वोपपत्तिर्व-
क्तुम्, श्रुतेर्यथार्थतत्वप्रकाशकत्वात् । एवं तर्हि शृणु श्रुत्यर्थ
हित्वा सर्वमभिमानम् ; न ह्यभिमानेन वर्षशतेनापि श्रत्यर्थो
ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः । यथा हृदयाकाशे पुरीतति
नाडीषु च स्वपतस्तत्संबन्धाभावात्ततो विविच्य दर्शयितुं
शक्यत इति आत्मनः स्वयंज्योतिष्टुं न बाध्यते । एवं मन-
स्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासना
अविद्यया अन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः
प्रविविक्तस्य द्रष्टुर्वासनाभ्यो दृश्यरूपाभ्योऽन्यत्वेन स्वयंज्यो-
तिथं सुदर्पितेनापि तार्किकेण केन वारयितुं शक्यते ? तस्मा-
त्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रलीने च मनसि मनो-
मय: स्वप्नान्पश्यतीति । कथं महिमानमनुभवतीति उच्यते ।
यन्मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादि-