2026-05-06 05:23:22 by ambuda-bot
This page has not been fully proofread.
२७४
प्रश्नोपनिषद्भाष्ये
त्स्वात्मनि संहृतश्रोत्रादिकरण: स्वप्ने महिमानं विभूतिं विषय-
विषयिलक्षणमनेकात्मभावगमनम् अनुभवति प्रतिपद्यते । ननु
महिमानुभवने करणं मनोऽनुभवितुः ; तत्कथं स्वातन्त्र्येणानु-
भवतीत्युच्यते ? स्वतन्त्रो हि क्षेत्रज्ञः । नैष दोषः । क्षेत्रज्ञस्य
स्वातन्त्र्यस्य मनउपाधिकृतत्वात् । न हि क्षेत्रज्ञः परमार्थतः
स्वतः स्वपिति जागर्ति वा । मनउपाधिकृतमेव तस्य जागरणं
स्वप्नश्च । उक्तं वाजसनेयके ' सधीः स्वप्नो भूत्वा ध्यायतीव
लेलायतीव' इत्यादि । तस्मान्मनसो विभूत्यनुभवे स्वातन्त्र्यव-
चनं न्याय्यमेव । मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य
स्वयंज्योतिष्ट्वं बाध्येत इति केचित् । तन्न । श्रुत्यर्थापरिज्ञान-
कृता भ्रान्तिस्तेषाम् । यस्मात्स्वयंज्योतिष्ट्वा दिव्यवहारोऽप्या-
मोक्षान्त: सर्वोऽप्यविद्याविषय एव मनआद्युपाधिजनित: ;
' यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येन्मात्रासंसर्गरत्वस्य
भवति' 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्या-
दिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेवेयमाशङ्का, न त्वेकात्मवि-
दाम् । नन्वेवं सति 'अत्रायं पुरुष: स्वयंज्योति: ' इति विशेष-
णमनर्थकं भवति । अत्रोच्यते । अत्यल्पमिदमुच्यते ' य एषो -
ऽन्तर्हृदय आकाशस्तस्मिञ्शेते' इति अन्तर्हृदयपरिच्छेदकर-
णे सुतरां स्वयंज्योतिष्वं बाध्येत । सत्यमेवम्; अयं दोषो यद्यपि