Proofing

This page has not been fully proofread.

चतुर्थः
 
ः प्रश्नः ।
 
२७३
 
लप्राप्तेः ः । कथम् ? सः उदानः एनं मनआख्यं यजमानं स्वप्न-
वृत्तिरूपादपि प्रच्याव्य अहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्म
अक्षरं गमयति । अतो यागफलस्थानीयः उदानः ॥
 
अत्रैष देवः खमे महिमानमनुभवति ।
यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनु-
शृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः
पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं
चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च
सर्व पश्यति सर्वः पश्यति ॥ ५ ॥
 
एवं विदुषः श्रोत्राद्युपरम कालादारभ्य यावत्सुप्तोत्थितो
भवति तावत्सर्वया गफलानुभव एव, नाविदुषामिवानर्थायेति
विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ति,
प्राणाग्यो वा जाग्रति । जाग्रत्स्वप्नयोर्मनः स्वातन्त्र्यमनुभव-
दहरहः सुषुतं वा प्रतिपद्यते । समानं हि सर्वप्राणिनां
पर्यायेण
जाग्रत्स्वप्नसुषुप्तगमनम् ; अतो विद्वत्तास्तुतिरेवेयमुप-
पद्यते । यत्पृष्टं कतर एष देव: स्वप्नान्पश्यतीति ; तदाह-
अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु
प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन्नन्तराल एषः देवः अर्करश्मिव-
 
s. C. 18