Proofing

This page has not been fully proofread.

२७२
 
प्रश्नोपनिषद्भाष्ये
 
व्यानस्तु हृदयाद्दक्षिणसुषिरद्वारेण निर्गमाद्दक्षिणदिक्संबन्धात्
 
अन्वाहार्यपचन: दक्षिणाभिः ॥
 
यदुच्छ्वासनिःश्वासावेतावाहुती समं
नयतीति स समानः । मनो ह वाव
यजमान इष्टफलमेवोदानः स एनं यज-
मानमहरहर्ब्रह्म गमयति ॥ ४ ॥
 
अत्र च होता अग्निहोत्रस्य यत् यस्मात् उच्छ्रासनिः-
श्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव तु
एतौ आहुती समं साम्येन शरीरस्थितिभावाय नयति यो
वायुरग्निस्थानीयोऽपि होता चाहुत्योर्नेतृत्वात् । कोऽसौ ? स
समान: । अतश्च विदुषः स्वापोऽप्यग्निहोत्रहवनमेव । तस्मा-
द्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि च
भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके ।
अव हि जाग्रत्सु प्राणाग्निषूपसंहृत्य बाह्यकरणानि विषयां-
श्रग्निहोत्रफलमिव स्वर्गे ब्रह्म जिगमिषुः मनो ह वाव यज-
मान: जागर्ति । यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहा-
स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाद्यजमानो मनः कल्प्यते ।
इष्टफलं यागफलमेव उदान वायुः । उदाननिमित्तत्वादिष्टफ-