Proofing

This page has not been fully proofread.

चतुर्थः प्रश्नः ।
 
२७१
 
श्मिवन्मण्डलान्मनस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते
यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मन-
स्येकीभूतानीव करणव्यापारादुपरतानि तेन तस्मात् तर्हि
तस्मिन्स्वापकाले एषः देवदत्तादिलक्षणः पुरुषः न शृणोति
न पश्यति न जिघ्रति न रसयते न स्पृशते न अभिवदते
न आदत्ते न आनन्दयते न विसृजते न इयायते स्वपिति
- इति आचक्षते लौकिकाः ॥
 
प्राणानय एवैतस्मिन्पुरे जाग्रति । गा-
पत्यो ह वा एषोऽपानो व्यानोऽन्वाहा-
पचनो गार्हपत्यात्प्रणीयते प्रणयना-
दाहवनीयः प्राणः ॥ ३ ॥
 
सुप्तवत्सु श्रोत्रादिषु करणेषु एतस्मिन् पुरे नवद्वारे देहे प्राणा-
ग्नयः प्राणा एव पञ्च वायवोऽमय इवाग्नयः जाग्रति । अग्नि-
सामान्यं हि आह— गार्हपत्यो ह वा एषोऽपानः । कथमि-
ति, आह । यस्मात् गार्हपत्यात् अग्नेरग्निहोत्रकाले इतरोऽभि-
राहवनीयः प्रणीयते प्रणयनात्, प्रणीयते अस्मादिति प्रणयनो
गार्हपत्योऽग्निः, तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो
मुखनासिकाभ्यां संचरति अत आहवनीयस्थानीयः प्राणः ।