2026-05-06 05:23:21 by ambuda-bot
This page has not been fully proofread.
२७०
प्रश्नोपनिषद्भाष्ये
तस्मै स होवाच यथा गार्ग्य मरीच-
योऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्ते-
जोमण्डल एकीभवन्ति ताः पुनः पुन-
रुदयतः प्रचरन्त्येवं ह वै तत्सर्व परे देवे
मनस्येकीभवति । तेन तर्ह्येष पुरुषो न
शृणोति न पश्यति न जिघ्रति न रस-
यते न स्पृशते नाभिवदते नादत्ते नान-
न्दयते न विसृजते नेयायते स्वपितीत्या-
चक्षते ॥ २ ॥
तस्मै स ह उवाच आचार्य: । शृणु हे गार्ग्य, यत्त्वया
पृष्टम् । यथा मरीचयः रश्मयः अर्कस्य आदित्यस्य अस्तम् अद-
र्शनं गच्छतः सर्वाः अशेषत: एतस्मिन् तेजोमण्डले तेजोराशि-
रूपे एकीभवन्ति विवेकानईत्वमविशेषतां गच्छन्ति, ताः मरी-
चयस्तस्यैवार्कस्य पुनः पुनः उदयतः उद्गच्छतः प्रचरन्ति
विकीर्यन्ते यथायं दृष्टान्तः । एवं ह वै तत् सर्व विषयेन्द्रिया-
दिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां
मनस्तन्त्रत्वात्परो देवो मन:, तस्मिन्स्वप्नकाले एकीभवति
मण्डले मरीचिवद विशेषतां गच्छति । जिजागरिषोश्च र-