Proofing

This page has not been fully proofread.

चतुर्थः प्रश्नः ।
 
२६९
 
स्मिन् पुरुषे शिरः पाण्यादिमति कानि करणानि स्वपन्ति
स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते; कानि च अस्मिन् जाग्रति
जागरणमनिद्रावस्थां स्वव्यापारं कुर्वन्ति । कतर: कार्यकरण-
लक्षणयोः एष देवः स्वप्नान्पश्यति । स्वप्नो नाम जाग्रद्दर्शना-
निवृत्तस्य जाग्रद्वदन्तः शरीरे यद्दर्शनम् । तत्किं कार्यलक्षणेन
देवेन निर्वर्त्यते, किंवा करणलक्षणेन केनचिदित्यभिप्रायः ।
उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणमना-
बाधं सुखं कस्य एतत् भवति । तस्मिन्काले जाग्रत्स्वप्नव्यापा-
रादुपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः संप्रतिष्ठिताः ।
मधुनि रसवत्समुद्रप्रविष्टनद्यादिवश्च विवेकानर्हाः प्रतिष्ठिता
भवन्ति संगताः संप्रतिष्ठिता भवन्तीत्यर्थः । ननु न्यस्तदा-
त्रादिकरणवत्स्वव्यापारादुपरतानि पृथक्पृथगेव स्वात्मन्यव -
तिष्ठन्त इत्येतद्युक्तम् ; कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां
कस्मिंश्चिदेकीभावगमनाशङ्काया: प्रष्टुः ? युक्तैव त्वाशङ्का;
यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्र-
द्विषये ; तस्मात्स्वापेऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चि-
त्संगतिर्न्याय्येति; तस्मादाशङ्कानुरूप एव प्रश्नोऽयम् । अत्र
तु कार्यकरणसंघातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोः,
तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे संप्रतिष्ठिता
भवन्तीति ॥