2026-05-06 05:23:20 by ambuda-bot
This page has not been fully proofread.
चतुर्थः प्रश्नः ॥
-8.
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ
भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्य-
स्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्य-
ति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे
संप्रतिष्ठिता भवन्तीति ॥ १ ॥
अथ ह एनं सौर्यायणी गार्ग्य: पप्रच्छ प्रश्नत्रयेणापरविद्या-
गोचरं सर्व परिसमाप्य संसारं व्याकृतविषयं साध्यसाधन-
लक्षणमनित्यम् । अथेदानीं साध्यसाधनविलक्षणमप्राणममनो-
गोचरमतीन्द्रियमविषयं शिवं शान्तमविकृतमक्षरं सत्यं पर-
विद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्तव्यमित्युत्तरं
प्रश्नत्रयमारभ्यते । तत्र सुदीप्तादिवाग्नेर्यस्मात्परस्मादक्षरात्सर्वे
भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्तीत्युक्तं द्वितीये
मुण्डके ;
ते सर्वे भावा अक्षराद्विस्फुलिङ्गा इव विभज्यन्ते ।
कथं वा विभक्ताः सन्तस्तत्रैवापियन्ति । किंलक्षणं वा तदक्षर-
मिति । एतद्विवक्षया अधुना प्रश्नानुद्भावयति — भगवन्, एत-