2026-05-06 05:23:20 by ambuda-bot
This page has not been fully proofread.
तृतीयः प्रश्नः ।
२६७
न ह अस्य नैवास्य विदुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते
च्छिद्यते । पतिते च शरीरे प्राणसायुज्यतया अमृत: अमरण-
धर्मा भवति ; तत् एतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोक:
मन्त्रो भवति ॥
उत्पत्तिमायतिं स्थानं
विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य
विज्ञायामृतमश्नुते
विज्ञायामृतमश्नुत इति ॥
इति तृतीयः प्रश्नः ॥
उत्पत्तिं परमात्मनः प्राणस्य आयतिम् आगमनं मनोकृते-
नास्मि शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं
च स्वाम्यमेव सम्राडिव प्राणवृत्तिभेदानां पञ्चधा स्थापनम् ।
बाह्यमादित्यादिरूपेणाध्यात्मं चैव चक्षुराद्याकारेणावस्थानं
विज्ञाय एवं प्राणम् अमृतमश्नुते इति । विज्ञायामृतश्नुत इति
द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम ॥
इति तृतीयप्रश्नभाष्यम् ॥
8--