Proofing

This page has not been fully proofread.

तृतीयः प्रश्नः ।
 
२६५
 
न्तरा यदाकाशः स समानो वायु-
यनः ॥ ८ ॥
 
आदित्यः ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष
उदयति उद्गच्छति । एष हि एनम् आध्यात्मिकं चक्षुषि भवं चा-
क्षुषं प्राणं प्रकाशेन अनुगृह्णानः रूपोपलब्धौ चक्षुष आलोकं कु-
र्वन्नित्यर्थः । तथा पृथिव्याम् अभिमानिनी या देवता प्रसिद्धा
सैषा पुरुषस्य अपानम् अपानवृत्तिम् अवष्टभ्य आकृष्य वशी-
कृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः । अन्यथा
शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् । यदेतत् अन्तरा मध्ये
द्यावापृथिव्योः यः आकाशः तत्स्थो वायुराकाश उच्यते, म-
श्चस्थवत् । स समानः समानमनुगृह्णानो वर्तत इत्यर्थः ।
समानस्यान्तराकाशस्थत्वसामान्यात् । सामान्येन च यो
बाह्य वायु: स व्याप्तिसामान्यात् व्यानः व्यानमनुगृहानो
वर्तत इत्यभिप्राय: ॥
 
तेजो ह वाव उदानस्तस्मादुपशान्तते-
जाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥
यद्वाह्यं ह वाव प्रसिद्धं सामान्यं तेजः तच्छरीरे उदान: उ-
दानं वायुमनुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः । यस्मात्तेज:-
स्वभावो बाह्यतेजोनुगृहीत उत्क्रान्तिकर्ता तस्मात् यदा लौकि-