Proofing

This page has not been fully proofread.

२६४
 
प्रश्नोपनिषद्भाष्ये
 
सहस्राणि प्रतिप्रतिनाडीशतं संख्यया प्रधाननाडीनां सहस्रा -
णि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो
व्यापनात् । आदित्यादिव रश्मयो हृदयात्सर्वतोगामिनीभि-
र्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । संधिस्कन्धमर्म-
देशेषु विशेषेण प्राणापानवृत्त्योश्च मध्ये उद्भूतवृत्तिर्वीर्यवत्क-
कर्ता भवति ॥
 
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं
नयति पापेन पापमुभाभ्यामेव मनुष्य-
लोकम् ॥ ७ ॥
 
अथ या तु तत्रैकशतानां नाडीनां मध्ये ऊर्ध्वगा सुषुम्ना-
ख्या नाडी, तया एकया ऊर्ध्वः सन् उदानः वायुः आपादतल-
मस्तकवृत्तिः संचरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं
देवादिस्थानलक्षणं नयति प्रापयति । पापेन तद्विपरीतेन
पापं नरकं तिर्यग्योन्यादिलक्षणम् । उभाभ्यां समप्रधा-
नाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते ॥
आदित्यो ह वै बाह्यः प्राण उदयत्येष
ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां
या देवता सैषा पुरुषस्यापानमवष्टभ्या-