2026-05-06 05:23:19 by ambuda-bot
This page has not been fully proofread.
२६२
प्रश्नोपनिषद्भाष्ये
यथा सम्राडेवाधिकृतान्विनियुक्त ए-
तान्ग्रामानेतान्ग्रामानधितिष्ठस्वेत्येवमेवैष
प्राण इतरान्प्राणान्पृथक्पृथगेव संनि-
धन्ते ॥ ४ ॥
यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिष्वधिकृ-
तान्विनियुङ्क्ते । कथम् ? एतान्यामानेतान्प्रामानधितिष्ठस्वेति ।
एवमेव यथायं दृष्टान्तः । एषः मुख्यः प्राणः इतरान् प्राणान्
चक्षुरादीनात्मभेदांश्च पृथक्पृथगेव यथास्थानं संनिधत्ते वि-
नियुङ्क्ते ॥
पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासि-
काभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु
समानः । एष ह्येतद्भुतमन्नं समं नयति
तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥
तत्र विभाग: । पायूपस्थे पायुश्च उपस्थश्च पायूपस्थं
तस्मिन् । अपानम् आत्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वन् संनि-
धत्ते तिष्ठति । तथा चक्षुः श्रोत्रे चक्षुश्च श्रोत्रं च चक्षुः श्रोत्रं
तस्मिंश्चक्षुः श्रोत्रे । मुखनासिकाभ्यां मुखं च नासिका च मुख-