2026-05-06 05:23:19 by ambuda-bot
This page has not been fully proofread.
तृतीयः प्रश्नः ।
तस्मै स होवाचातिप्रश्रात्मजादि ब्र
ह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥
२६१
एवं पृष्टः तस्मै स होवाचाचार्य: । प्राण एव तावद्दुर्विज्ञे-
यत्वाद्विषमप्रभाः तस्यापि जन्मादि त्वं पृच्छसि अतः
अतिप्रश्नान्पृच्छसि । ब्रह्मिष्ठोऽसीति अतिशयेन त्वं ब्रह्मवित्,
अतस्तुष्टोऽहम्, तस्मात् ते तुभ्यम् अहं ब्रवीमि यत्पृष्टं शृणु ॥
1
पु-
आत्मन एष प्राणो जायते । यथैषा
रुषे च्छायैतस्मिन्नेतदाततं मनोकृतेनाया-
त्यस्मिञ्शरीरे ॥ ३॥
आत्मनः परस्मात्पुरुषादक्षरात्सत्यात् एषः उक्तः प्राणः
जायते । कथमित्यत्र दृष्टान्तः । यथा लोके एषा पुरुषे शि-
रः पाण्यादिलक्षणे निमित्ते च्छाया नैमित्तिकी जायते, तद्वत्
एतस्मिन् ब्रह्मण्येतत्प्राणाख्यं छायास्थानीयमनृतरूपं तत्त्वं
सत्ये पुरुषे आततं समर्पितमित्येतत् । छायेव देहे मनोकृतेन
मनः कृतेन मनः संकल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतत् । व-
क्ष्यति हि पुण्येन पुण्यमित्यादि । ' तदेव सक्तः सह कर्मणैति '
इति श्रुत्यन्तरात् । आयाति आगच्छत्यस्मिञ्शरीरे ।