2026-05-06 05:23:19 by ambuda-bot
This page has not been fully proofread.
तृतीयः प्रश्नः ॥
-8.
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ
भगवन्कुत एष प्राणो जायते कथमाया-
त्यस्मिञ्शरीर आत्मानं वा प्रविभज्य
कथं प्रातिष्ठते केनोत्क्रमते कथं बाह्यम-
भिधत्ते कथमध्यात्ममिति ॥ १ ॥
अथ हैनं कौसल्यश्वाश्वलायन: प्रपच्छ । प्राणैर्ह्येवं निर्धारि-
ततत्त्वः उपलब्धमहिमापि संहतत्वात्स्यादस्य कार्यत्वम् ; अतः
पृच्छामि । हे भगवन्, कुतः कस्मात्कारणात् एषः यथावधृ-
तः प्राणः जायते । जातश्च कथं केन वृत्तिविशेषेण आयाति
अस्मिन् शरीरे; किंनिमित्तकमस्य शरीरग्रहणमित्यर्थः । प्रवि-
ष्टश्व शरीरे आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन
प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्तिविशेषेणास्मा-
च्छरीरात् उत्क्रमते उत्क्रामति । कथं बाह्यम् अधिभूतमधि-
दैवतं च अभिधत्ते धारयति ; कथमध्यात्ममिति, धारयतीति
शेषः ॥