2026-05-06 05:23:18 by ambuda-bot
This page has not been fully proofread.
द्वितीयः प्रश्नः ।
२५९
किं बहुना ? या ते त्वदीया तनूः वाचि प्रतिष्ठिता वक्तृ-
त्वेन वदनचेष्टां कुर्वती, या श्रोत्रे या च चक्षुषि या च मन-
सि संकल्पादिव्यापारेण संतता समनुगता तनूः, तां शिवां
शान्तां कुरु; मा उत्क्रमीः उत्क्रमणेनाशिवां मा कार्षी-
रित्यर्थः ॥
प्राणस्येदं वशे सर्व
त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्रक्षख
श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥
किं बहुना । अस्मिँल्लोके प्राणस्यैव वशे सर्वमिदं यत्कि -
चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत् प्रतिष्ठितं
देवाद्युपभोगलक्षणं तस्यापि प्राण एव ईशिता रक्षिता । अतो
मातेव पुत्रान् अस्मान् रक्षस्व पालयस्व । त्वन्निमित्ता हि ब्रा-
ह्नयः क्षात्र्यश्च श्रियः ताः त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थि-
तिनिमित्तां विधेहि नः विधत्स्वेत्यर्थः । इत्येवं सर्वात्मतया
वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरेवे-
त्यवधृतम् ॥
इति द्वितीयः प्रश्नः ॥