2026-05-06 05:23:18 by ambuda-bot
This page has not been fully proofread.
२५८
प्रश्नोपनिषद्भाष्ये
व्रात्यस्त्वं प्राणैकर्षि
रक्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः
पिता त्वं मातरिश्व नः ॥ ११ ॥
किंच, प्रथमजत्वादन्यस्य संस्कर्तुरभावादसंस्कृतो वात्य:
त्वम्, स्वभावत एव शुद्ध इत्यभिप्रायः । हे प्राण, एकर्षि:
त्वम् आथर्वणानां प्रसिद्ध एकर्षिनामा अग्निः सन् अत्ता
सर्वहविषाम् । त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य
पतिः सत्पति: ; साधुर्वा पतिः सत्पति: । वयं पुनः
आद्यस्य तव अदनीयस्य हविषो दातारः । त्वं पिता मात-
रिश्व हे मातरिश्वन् नः अस्माकम् अथवा, मातरिश्वनः
वायोः पिता त्वम् । अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् ।
"
या ते तनूर्वाचि प्रतिष्ठिता
या श्रोते या च चक्षुषि ।
या च मनसि संतता
शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥