Proofing

This page has not been fully proofread.

द्वितीयः प्रश्नः ।
 
२५७
 
त्वमन्तरिक्षे चरसि
 
सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥
 
किंच, इन्द्रः परमेश्वरः त्वं हे प्राण, तेजसा वीर्येण .
रुद्रोऽसि संहरन् जगत् । स्थितौ च परि समन्तात् रक्षिता
पालयिता; परिरक्षिता त्वमेव जगतः सौम्येन रूपेण ।
अन्तरिक्षे अजस्रं चरसि उदयास्तमयाभ्यां सूर्यः त्वमेव
च सर्वेषां ज्योतिषां पतिः ॥
 
यदा त्वमभिवर्षस
 
अथेमाः प्राण ते प्रजाः ।
 
आनन्दरूपास्तिष्ठन्ति
 
कामायान्नं भविष्यतीति ॥ १० ॥
 
यदा पर्जन्यो भूत्वा अभिवर्ष त्वम्, अथ तदा अन्नं
प्राप्य इमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः । अथवा,
हे प्राण, ते तव इमाः प्रजाः स्वात्मभूतास्त्वदन्नसंवर्धितास्त्वद-
भिवर्षणदर्शनमात्रेण च आनन्दरूपाः सुखं प्राप्ता इव
सत्यः तिष्ठन्ति । कामाय इच्छातः अन्नं भविष्यति इत्येवम-
भिप्राय: ॥
 
S. u. 17