Proofing

This page has not been fully proofread.

. २५६
 
प्रश्नोपनिषद्भाष्ये
 
हरन्तीति युक्तम् । भोक्तासि यतस्त्वं तवैवान्यत्सर्वं भो-
 
ज्यम् ॥
 
देवानामसि वह्नितमः
 
पितॄणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्य-
 
मथर्वाङ्गिरसामसि ॥ ८ ॥
 
किंच, देवानाम् इन्द्रादीनाम् असि भवसि त्वं वह्नि-
तम: हविषां प्रापयितृतमः । पितॄणां नान्दीमुखे श्राद्धे या
पितृभ्यो दीयते स्वधा अन्नं सा देवप्रदानमपेक्ष्य प्रथमा
भवति । तस्या अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः ।
किंच, ऋषीणां चक्षुरादीनां प्राणानाम् अथर्वाङ्गिरसाम्
अङ्गिरसंभूतानामथर्वणाम्— 'तेषामेव प्राणों वाथर्वा ' इति
श्रुतेः- चरितं चेष्टितं सत्यम् अवितथं देहधारणाद्युपकारल-
क्षणं त्वमेवासि ॥
 
इन्द्रस्त्वं प्राण तेजसा
 
रुद्रोऽसि परिरक्षिता ।